|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.207. अध्यायः 207
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति मरीच्यादिब्रह्मपुत्रवंशकथनपूर्वकं प्राच्यादिदिग्गतमहर्षिनामनिर्देशः॥ 1।

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-207-0x(6062)(73248)
के पूर्वमासन्पतयः प्रजानां भरतर्षभ।
के चर्षयो महाभागा दिक्षु प्रत्येकशः स्थिताः॥ 12-207-1(73249)
भीष्म उवाच। 12-207-2x(6063)
श्रूयतां भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि।
प्रजानां पतयो ये च दिक्षु ये चर्षयः स्मृताः॥ 12-207-2(73250)
एकः स्वयंभूर्भगवानाद्यो ब्रह्मा सनातनः।
ब्रह्मणः सप्त वै पुत्रा महात्मानः स्वयंभुवः॥ 12-207-3(73251)
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः।
वसिष्ठश्च महाभागः सदृशो वै स्वयंभुवा॥ 12-207-4(73252)
सप्त ब्रह्मण इत्येते पुराणे निश्चयं गताः।
अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन्॥ 12-207-5(73253)
अत्रिवंशतमुत्पन्नो ब्रह्मयोनिः सनातनः।
प्राचनवर्हिर्भगवांस्तस्मात्प्राचेतसो दश॥ 12-207-6(73254)
दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः।
तस्य द्वे नामनी लोके दक्षः क इति चोच्यते॥ 12-207-7(73255)
मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी स्मृते।
अरिष्टनेमिरित्येके कश्यपेत्यपरे विदुः॥ 12-207-8(73256)
अत्रेश्चैवौरसः श्रीमान्राजा सोमश्च वीर्यवान्।
सहस्रं यश्च दिव्यानां युगानां पर्युपासिता॥ 12-207-9(73257)
अर्यमा चैव भगवान्ये चास्य तनया विभो।
एते प्रदेशाः कथिता भुवनानां प्रभावनाः॥ 12-207-10(73258)
शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत।
एकैकस्यां सहस्रं तु तनयानामभूत्तदा॥ 12-207-11(73259)
एवं शतसहस्राणि दश तस्य महात्मनः।
पुत्राणां च न ते संचिदिच्छन्त्यन्यं प्रजापतिम्॥ 12-207-12(73260)
प्रजामाचक्षते विप्राः पुराणाः शाशबिन्दवीम्।
स वृष्णिवंशप्रभवो महावंशः प्रजापतेः॥ 12-207-13(73261)
एते प्रजानां पतयः समुद्दिष्टा यशस्विनः॥ 12-207-14(73262)
`शशबिन्दुस्तु राजर्षिर्महायोगी महामनाः।
अध्यात्मवित्सहस्राणां भार्याणां दशमध्यगः॥ 12-207-15(73263)
स योगी योगमापन्नस्ततः सायुच्यतां गतः।'
अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान्॥ 12-207-16(73264)
भयोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा।
सविता चैव घाता च विवस्वांश्च महाबलः॥ 12-207-17(73265)
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते।
इत्येते द्वादशादित्याः कश्यपस्यात्मसंभवाः॥ 12-207-18(73266)
नासत्यश्चैव दस्रश्च स्मृतो द्वावश्विनावपि।
मार्तण्डस्यात्मजावेतावात्मस्य प्रजापतेः॥ 12-207-19(73267)
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः॥ 12-207-20(73268)
अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः॥ 12-207-21(73269)
सावित्रश्च जयन्तश्च पिनाकी चापराजितः।
`एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः॥' 12-207-22(73270)
पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः।
एत एवविधा देवा मनोरेव प्रजापतेः।
ते च पूर्वं सुराश्चेति द्विविधाः पितरः स्मृताः॥ 12-207-23(73271)
शीलयौवनयोस्त्वन्यस्तथाऽन्ये सिद्धसाध्ययोः।
ऋभवो मरुतश्चैव देवानां चोदितो गणः॥ 12-207-24(73272)
एवमेते समाम्नाता विश्वेदेवास्तथाऽश्विनौ।
आदित्याः क्षत्रियास्तेषां विशश्च मरुतस्तथा॥ 12-207-25(73273)
अश्विनौ तु स्मृतौ शूद्रौ तपस्युग्रे समास्थितौ।
स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः।
इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम्॥ 12-207-26(73274)
एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत्।
स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते॥ 12-207-27(73275)
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू।
औशिजश्चैव कक्षीवान्बलश्चाङ्गिरसः स्मृतः॥ 12-207-28(73276)
ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा।
त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा॥ 12-207-29(73277)
उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान्।
प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः॥ 12-207-30(73278)
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान्।
एते ब्रह्मर्षयो नित्यमास्थिता दक्षिणां दिशम्॥ 12-207-31(73279)
उषङ्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान्।
एकतश्च द्वितश्चैव त्रितश्चैवं महर्षयः॥ 12-207-32(73280)
अत्रेः पुत्रश्च दुर्वासास्तथा सारस्वतः प्रभुः।
एते चैव महात्मानः पश्चिमामाश्रिता दिशम्॥ 12-207-33(73281)
अत्रिश्चैव वसिष्ठश्च काश्यपश्च महानुषिः।
गौतमोऽथ भरद्वाजो विश्वामित्रोऽथ कौशिकः॥ 12-207-34(73282)
तथैव पुत्रो भगवानृचीकस्य महात्मनः।
जमदग्निश्च सप्तैते उदीचीमाश्रिता दिशम्॥ 12-207-35(73283)
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः।
साक्षिभूता महात्मानो भुवनानां प्रभावनाः॥ 12-207-36(73284)
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशम्।
एतेषां कीर्तनं कृत्वा सर्वपापात्प्रमुच्यते॥ 12-207-37(73285)
यस्यांयस्यां दिशि ह्येते तां दिशं शरणं गतः।
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च तथा भवेत्॥ ॥ 12-207-38(73286)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्ताधिकद्विशततमोऽध्यायः॥ 207॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-207-9 अङ्गश्च पौरवः श्रीमान्राजा भौमश्च वीर्तवान् इति ड. थ. पाठः। अंशश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवानिति ध. पाठः॥ 12-207-10 प्रदेशाः प्रदिशन्ति आज्ञापयन्तीति प्रेदशा ईशनशीला इत्यर्थः। प्रभावनाः प्रकर्षेण स्नष्टारश्च॥ 12-207-27 स्वजात् स्वयं कामतोऽकामतश्च कृतात्। अन्यसंसर्गजात्॥ 12-207-28 नीलश्चाङ्गिरसः स्मृत इति ड.ध. पाठः॥ 12-207-29 त्रैलोक्यगायना इति ड. थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|